Bhakti

Bhakti

नन्दीश्वर भक्ति संस्कृत

नन्दीश्वर भक्ति संस्कृत

त्रिदशपतिमुकुट तट गतमणि,

गणकर निकर सलिलधाराधौत।

क्रमकमलयुगलजिनपति रुचिर,

प्रतिबिम्बविलय विरहितनिलयान्॥ १॥

 

निलयानहमिह महसां सहसा, प्रणिपतन पूर्वमवनौम्यवनौ।

त्रय्यां त्रय्या शुद्ध्या निसर्ग, शुद्धान्विशुद्धये घनरजसाम्॥ २॥

 

भावनसुर-भवनेषु, द्वासप्तति-शत-सहस्र-संख्याभ्यधिका:।

कोट्य: सप्त प्रोक्ता, भवनानां भूरि-तेजसां भुवनानाम्॥ ३॥

 

त्रिभुवन-भूत-विभूनां, संख्यातीतान्यसंख्य-गुण-युक्तानि।

त्रिभुवनजननयनमन:,प्रियाणिभवनानि भौमविबुधनुतानि॥ ४॥

 

यावन्ति सन्ति कान्त-ज्योति-र्लोकाधिदेवताभिनुतानि।

कल्पेऽनेक-विकल्पे, कल्पातीतेऽहमिन्द्र-कल्पानल्पे॥ ५॥

 

विंशतिरथ त्रिसहिता, सहस्र-गुणिता च सप्तनवति: प्रोक्ता।

चतुरधिकाशीतिरत:, पञ्चकशून्येन विनिहतान्यनघानि॥ ६॥

 

अष्टापञ्चाशदतश्-चतु:शतानीह मानुषे च क्षेत्रे।

लोकालोकविभागप्रलोकनाऽऽलोक-संयुजां जयभाजाम्॥ ७॥

 

नव-नव-चतु:शतानि च, सप्त च नवति: सहस्र-गुणिता: षट् च।

पञ्चाशत्पञ्च-वियत्, प्रहता: पुनरत्र कोटयोऽष्टौ प्रोक्ता:॥ ८॥

 

एतावन्त्येव सता-मकृत्रि-माण्यथ जिनेशिनां भवनानि।

भुवनत्रितये त्रिभुवन-सुर-समिति-समच्र्यमान-सप्रतिमानि॥ ९॥

 

वक्षार-रुचक-कुण्डल-रौप्य - नगोत्तर - कुलेषु कारनगेषु।

कुरुषु च जिनभवनानि, त्रिशतान्यधिकानि तानि षड्विंशत्या॥ १०॥

 

नन्दीश्वर-सद्द्वीपे, नन्दीश्वर-जलधि-परिवृते धृत-शोभे।

चन्द्रकर-निकर-सन्निभ-रुन्द्र-यशो वितत-दिङ्-मही-मण्डलके॥ ११॥

 

तत्रत्याञ्जन-दधिमुख-रतिकर-पुरु-नग-वराख्य-पर्वत-मुख्या:।

प्रतिदिश-मेषा-मुपरि,त्रयो-दशेन्द्रार्चितानि, जिनभवनानि॥ १२॥

 

आषाढ़-कार्तिकाख्ये,फाल्गुनमासे च शुक्लपक्षेऽष्टम्या:।

आरभ्याष्ट-दिनेषु च, सौधर्म-प्रमुख-विबुधपतयो भक्त्या॥ १३॥

 

तेषु महामह-मुचितं प्रचुराक्षत-गन्ध-पुष्प-धूपै-र्दिव्यै:।

सर्वज्ञ-प्रतिमाना- मप्रतिमानां प्रकुर्वते सर्व-हितम्॥ १४॥

 

भेदेन वर्णना का, सौधर्म: स्नपन-कर्तृता मापन्न:।

परिचारक-भावमिता:,शेषेन्द्रा-रुन्द्र-चन्द्रनिर्मल-यशस:॥

मङ्गल-पात्राणि पुनस्तद्-देव्यो बिभ्रतिस्म शुभ्र-गुणाढ्या:।

अप्सरसो नर्तक्य:, शेष-सुरास्तत्र लोकनाव्यग्रधिय:॥ १६॥

 

वाचस्पति-वाचामपि, गोचरतां संव्यतीत्य यत्-क्रममाणम्।

विबुधपतिविहितविभवं, मानुषमात्रस्य कस्य शक्ति: स्तोतुम्॥ १७

 

निष्ठापित-जिनपूजाश्-चूर्ण-स्नपनेन दृष्टविकृतविशेषा:।

सुरपतयो नन्दीश्वरजिनभवनानि प्रदक्षिणीकृत्य पुन:॥ १८॥

 

पञ्चसु मंदरगिरिषु, श्रीभद्रशालनन्दन-सौमनसम्।

पाण्डुकवनमिति तेषु, प्रत्येकं जिनगृहाणि चत्वार्येव॥ १९॥

 

तान्यथ परीत्य तानि च, नमसित्वा कृतसुपूजनास्तत्रापि।

स्वास्पदमीयु: सर्वे, स्वास्पदमूल्यं स्वचेष्टया संगृह्य॥ २०॥

 

सहतोरणसद्वेदी - परीतवनयाग - वृक्ष - मानस्तम्भ:।

ध्वजपंक्तिदशकगोपुर,चतुष्टयत्रितयशालमण्डपवर्यै:॥ २१॥

 

अभिषेकप्रेक्षणिका, क्रीडनसंगीतनाटका-लोकगृहै:।

शिल्पिविकल्पित-कल्पनसंकल्पातीत-कल्पनै: समुपेतै:॥ २२॥

 

वापी सत्पुष्करिणी, सुदीर्घिकाद्यम्बुसंसृतै: समुपेतै:।

विकसितजलरुहकुसुमै-र्नभस्यमानै: शशिग्रहक्र्षै: शरदि॥ २३॥

 

भृंगाराब्दक-कलशा, द्युपकरणैरष्टशतक-परिसंख्यानै:।

प्रत्येकं चित्रगुणै:, कृतझणझणनिनद-वितत-घण्टाजालै:॥ २४॥

 

प्रविभाजंते नित्यं, हिरण्मयानीवरेशिनां भवनानि।

गंधकुटीगतमृगपति,विष्टर-रुचिराणि-विविध-विभव-युतानि॥ २५॥

 

येषु-जिनानां प्रतिमा:, पञ्चशत-शरासनोच्छ्रिता: सत्प्रतिमा:।

मणिकनक-रजतविकृता,दिनकरकोटि-प्रभाधिक-प्रभदेहा:॥ २६॥

 

तानि सदा वंदेऽहं, भानुप्रतिमानि यानि कानि च तानि।

यशसां महसां प्रतिदिशमतिशय-शोभाविभाञ्जि पापविभाञ्जि॥ २७॥

 

सप्तत्यधिक-शतप्रिय, धर्मक्षेत्रगत-तीर्थकर-वर-वृषभान्।

भूतभविष्यत् संप्रतिकालभवान् भवविहानये विनतोऽस्मि॥ २८॥

 

अस्यामवसर्पिण्यां, वृषभजिन: प्रथमतीर्थकर्ता भर्ता।

अष्टापदगिरिमस्तक, गतस्थितो मुक्तिमाप पापान्मुक्त:॥ २९॥

 

श्रीवासुपूज्यभगवान्, शिवासु पूजासु पूजितस्त्रिदशानाम्।

चम्पायां दुरित-हर:, परमपदं प्रापदापदा-मन्तगत:॥ ३०॥

 

मुदितमतिबलमुरारि-प्रपूजितो जितकषायरिपुरथ जात:।

वृहदूर्जयन्तशिखरे,शिखामणिस्त्रिभुवनस्यनेमिर्भगवान्॥ ३१॥

 

पावापुरवरसरसां, मध्यगत: सिद्धिवृद्धितपसां महसाम्।

वीरो नीरदनादो, भूरि-गुणश्चारु शोभमास्पद-मगमत्॥ ३२॥

 

सम्मदकरिवन-परिवृत-सम्मेदगिरीन्द्रमस्तके विस्तीर्णे।

शेषा ये तीर्थकरा:, कीर्तिभृत: प्रार्थितार्थसिद्धिमवापन्॥ ३३॥

 

शेषाणां केवलिना- मशेषमतवेदिगणभृतां साधूनां।

गिरितलविवरदरीसरिदुरुवनतरुविटपिजलधिदहनशिखासु॥ ३४॥

 

मोक्षगतिहेतु-भूत-स्थानानि सुरेन्द्ररुन्द्र-भक्तिनुतानि।

मंगलभूतान्येता-न्यंगीकृत-धर्मकर्मणामस्माकम्॥ ३५॥

 

जिनपतयस्तत्-प्रतिमा-स्तदालयास्तन्निषद्यका स्थानानि।

ते ताश्च ते च तानि च, भवन्तु भवघात-हेतवो भव्यानाम्॥ ३६॥

 

सन्ध्यासु तिसृषु नित्यं, पठेद्यदि स्तोत्र-मेतदुत्तम-यशसाम्।

सर्वज्ञानां सार्वं, लघु लभते श्रुतधरेडितं पद-ममितम्॥ ३७॥

 

नित्यं नि:स्वेदत्वं, निर्मलता क्षीर-गौर-रुधिरत्वं च।

स्वाद्याकृति-संहनने, सौरूप्यं सौरभं च सौलक्ष्यम्॥ ३८॥

 

अप्रतिम-वीर्यता च, प्रिय-हित वादित्व-मन्यदमित-गुणस्य।

प्रथिता दश-विख्याता, स्वतिशय-धर्मा स्वयं-भुवो देहस्य॥

गव्यूति-शत-चतुष्टय-सुभिक्षता-गगन-गमन-मप्राणिवध:।

भुक्त्युपसर्गाभाव-श्चतुरास्यत्वं च सर्व-विद्येश्वरता॥ ४०॥

 

अच्छायत्व-मपक्ष्म-स्पन्दश्च सम-प्रसिद्ध-नख-केशत्वम्।

स्वतिशय-गुणा भगवतो,घाति-क्षयजा भवन्ति तेऽपि दशैव॥ ४१॥

 

सार्वार्ध-मागधीया, भाषा मैत्री च सर्व-जनता-विषया।

सर्वर्तुफलस्तबकप्रवाल-कुसुमोपशोभित-तरु-परिणामा:॥

आदर्शतल-प्रतिमा, रत्नमयी जायते मही च मनोज्ञा।

विहरण-मन्वेत्यनिल:, परमानन्दश्च भवति सर्वजनस्य॥ ४३॥

 

मरुतोऽपि सुरभि-गन्ध-व्यामिश्रा योजनान्तरं भूभागम्।

व्युपशमितधूलिकण्टक-तृण-कीटक-शर्करोपलं प्रकुर्वन्ति॥

तदनु स्तनितकुमारा, विद्युन्माला-विलास-हास-विभूषा:।

प्रकिरन्ति सुरभि-गन्धिं, गन्धोदक-वृष्टि-माज्ञया त्रिदशपते:॥ ४५॥

 

वरपद्मरागकेसरमतुल-सुख-स्पर्श-हेम-मय-दल-निचयम्।

पादन्यासे पद्मं सप्त, पुर: पृष्ठतश्च सप्त भवन्ति॥ ४६॥

 

फलभार-नम्र-शालि-ब्रीह्यादि-समस्त-सस्य-धृत-रोमाञ्चा।

परिहृषितेव च भूमि- स्त्रिभुवननाथस्य वैभवं पश्यन्ती॥ ४७॥

 

शरदुदयविमल-सलिलं, सर इव गगनं विराजते विगतमलम्।

जहति च दिशस्तिमिरिकां, विगतरज: प्रभृति जिह्मताभावं सद्य:॥

एतेतेति त्वरितं ज्योति- व्र्यन्तर-दिवौकसा-ममृतभुज:।

कुलिशभृदाज्ञापनया, कुर्वन्त्यन्ये समन्ततो व्याह्वानम्॥ ४९॥

 

स्फुरदरसहस्ररुचिरं, विमल-महारत्न-किरणनिकर-परीतम्।

प्रहसितकिरण-सहस्रद्युति-मण्डलमग्रगामिधर्मसुचक्रम्॥ ५०॥

 

इत्यष्ट-मंगलं च, स्वादर्श-प्रभृति-भक्ति-राग-परीतै:।

उपकल्प्यन्ते त्रिदशै-रेतेऽपि-निरुपमातिशया:॥ ५१॥

 

वैडूर्यरुचिर-विटप-प्रवाल-मृदु-पल्लवोपशोभित-शाख:।

श्रीमानशोक-वृक्षो वर-मरकतपत्रगहनबहलच्छाय:॥ ५२॥

 

मन्दारकुन्दकुवलय-नीलोत्पल-कमल-मालती-बकुलाद्यै:।

समद-भ्रमर-परीतैव्र्यामिश्रा पतति कुसुमवृष्टिर्नभस:॥ ५३॥

 

कटक-कटि-सूत्र-कुण्डल-केयूर-प्रभृति-भूषितांगौ स्वंगौ।

यक्षौ कमलदलाक्षौ, परिनिक्षिपत: सलीलचामरयुगलम्॥ ५४॥

 

आकस्मिकमिव युगपद्-दिवसकरसहस्रमपगत-व्यवधानम्।

भामण्डलमविभावित-रात्रिञ्दिवभेदमतितरामाभाति॥ ५५॥

 

प्रबल-पवनाभिघात- प्रक्षुभित-समुद्र-घोष-मन्द्र-ध्वानम्।

दन्ध्वन्यते सुवीणावंशादि-सुवाद्यदुन्दुभिस्तालसमम्॥ ५६॥

 

त्रिभुवनपतिता-लाञ्छन-मिन्दुत्रयतुल्यमतुल-मुक्ताजालम्।

छत्रत्रयं च सुबृहद्-वैडूर्य-विक्लृप्त-दण्डमधिकमनोज्ञम्॥ ५७॥

 

ध्वनिरपि योजनमेकं, प्रजायते श्रोतृ-हृदयहारि-गम्भीर:।

ससलिलजलधरपटलध्वनितमिव प्रविततान्तराशावलयम्॥ ५८॥

 

स्फुरितांशुरत्न-दीधिति- परिविच्छुरिताऽमरेन्द्र-चापच्छायम्।

ध्रियते मृगेन्द्रवर्यै:-स्फटिक-शिलाघटितसिंहविष्टरमतुलम्॥

यस्येह चतुस्ंित्रशत्- प्रवर-गुणा प्रातिहार्य-लक्ष्यम्यश्चाष्टौ।

तस्मै नमो भगवते, त्रिभुवन-परमेश्वरार्हते गुण-महते॥ ६०॥

 

क्षेपक-श्लोका:

गत्वा क्षितेर्वियति पंचसहस्रदण्डान्,

सोपान-विंशति-सहस्र-विराजमाना।

रेजे सभा धनद यक्षकृता यदीया,

तस्मै नमस्त्रिभुवनप्रभवे जिनाय॥१॥

 

सालोऽथ वेदिरथ वेदिरथोऽपि सालो,

वेदिंश्च साल इह वेदिरथोऽपि साल:।

वेदिश्च भाति सदसि क्रमतो यदीये,

तस्मै नमस्त्रिभुवनप्रभवे जिनाय॥२॥

 

प्रासाद-चैत्य-निलया: परिखात-बल्ली,

प्रोद्यान - केतुसुरवृक्ष - गृहाङ्गणाश्च।

पीठत्रयं सदसि यस्य सदा विभाति,

तस्मै नमस्त्रिभुवन-प्रभवे जिनाय॥३॥

 

माला-मृगेन्द्र - कमलाम्बर-वैनतेय,

मातङ्ग-गोपतिरथाङ्ग-मयूर हंसा:।

यस्य ध्वजा विजयिनो भुवने विभान्ति,

तस्मै नमस्त्रिभुवनप्रभवे जिनाय॥४॥

 

निर्ग्रन्थ-कल्प-वनिता-व्रतिका भ-भौम,

नागस्त्रियो भवन-भौम-भ-कल्पदेवा:।

कोष्ठस्थिता नृ-पशवोऽपि नमन्ति यस्य,

तस्मै नमस्त्रि-भुवन-प्रभवे जिनाय॥५॥

 

भाषा-प्रभा-वलयविष्टर-पुष्पवृष्टि:,

पिण्डिद्रुमस्त्रि-दशदुन्दुभि-चामराणि।

छत्रत्रयेण सहितानि लसन्ति यस्य,

तस्मै नमस्त्रि-भुवनप्रभवे जिनाय॥६॥

 

भृङ्गार-ताल-कलश-ध्वजसुप्रतीक,

श्वेतातपत्र-वरदर्पण-चामराणि।

प्रत्येक-मष्टशतकानि विभान्ति यस्य,

तस्मै नमस्त्रि-भुवन-प्रभवे जिनाय॥७॥

 

स्तंभप्रतोलि -निधिमार्गतडाग-वापी,

क्रीडादिधूप-घट-तोरण-नाट्य-शाला:।

स्तूपाश्च चैत्य-तरवो विलसन्ति यस्य,

तस्मै नमस्त्रि भुवनप्रभवे जिनाय॥८॥

 

सेनापति-स्थपति-हम्र्यपति-द्विपाश्च,

स्त्रीचक्रचर्म-मणिकाकिणिका-पुरोघा:।

छत्रासि-दण्डपतय: प्रणमन्ति यस्य,

तस्मै नमस्त्रिभुवनप्रभवे जिनाय॥९॥

 

पद्म:कालो महाकाल: सर्वरत्नश्च पाण्डुक-

नैसर्पो माणव: शङ्ख: पिङ्गलो निधयो नव।

एतेषां पतय: प्रणमन्ति यस्य,

तस्मै नमस्त्रिभुवनप्रभवे जिनाय॥१०॥

 

खवियघणघाइकम्मा चउतीसातिसयविसेसपंचकल्लाणा।

अट्ट-वर-पाडिहेरा अरिहंता मङ्गला मज्झं॥११॥

 

अंचलिका

इच्छामि भंते! णंदीसरभत्ति काउस्सग्गो कओ तस्सालोचेउं, णंदीसर-दीवम्मि, चउदिस विदिसासु अंजण-दधिमुह-रदिकर-पुरुण-गवरेसु जाणि जिणचेइयाणि ताणि सव्वाणि तिसुवि लोएसु भवणवासिय-वाणविंतर-जोइसियं-कप्पवासियत्ति चउविहा देवा सपरिवारा दिव्वेहिं गंधेहि, दिव्वेहि पुप्फेहि, दिव्वेहि धुव्वेहि, दिव्वेहि चुण्णेहि, दिव्वेहि वासेहि, दिव्वेहि ण्हाणेहि आसाढ-कत्तियफागुण-मासाणं अट्ठमिमाइं काऊण जाव पुण्णिमंति णिच्चकालं अच्चंति, पुज्जंति, वंदंति, णमंसंति, णंदीसर महाकल्लाणपुज्जं करंति अहमवि इह संतो तत्थसंताइयं णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो सुगइ-गमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं।