Bhakti

Bhakti

श्री योगि भक्ति संस्कृत

श्री योगि भक्ति संस्कृत
  • आर्या छंद

  • जाति जरोरुरोग, मरणातुर शोक सहस्त्रदीपिताः,

  • दुःसह नरक पतन, सन्त्रस्त धियः प्रतिबुद्धचेतसः

  • जीवितमंबु बिंदु-चपलं, तडिदभ्रसमा विभूतयः,

  • सकलमिदं विचिन्त्य-मुनयः,प्रशमाय-वनान्त-माश्रिताः ॥१ ॥

  • व्रत समिति गुप्ति, संयुताः शमसुखमाधाय मनसि वीतमोहाः ।

  • ध्यानाऽध्ययन-वशंगताः, विशुद्धये कर्मणां तपश्चरन्ति ॥ २ ॥

  • दिनकर किरणनिकर-संतप्त,शिलानिचयेषु निष्पृहाः,

  • मलपटलाऽवलिप्त, तनवः शिथिली कृतकर्म बंधनाः ।

  • व्यपगत-मदनदर्प, रतिदोष कषाय विरक्त मत्सराः,

  • गिरि-शिखरेषु चंड-किरणाभि,मुखस्थितयो दिगम्बराः ॥३ ॥

  • सज्ज्ञानाऽमृत पायिभिः,

  • क्षान्तिपयः सिञ्च्यमान पुण्यकायैः ।

  • धृत संतोषच्छत्रकैः,

  • तापस्तीव्रोऽपि सह्यते मुनीन्द्रैः ॥४॥

  • शिखिगल कज्जलालि मलिनैर्-

  • विबुधाधिपचाप चित्रितैः,

  • भीम-रवैर्-विसृष्ट चण्डाशनि,

  • शीतल वायु वृष्टिभिः ।

  • गगनतलं विलोक्य, जलदैः

  • स्थगितं सहसा तपोधनाः,

  • पुनरपि तरुतलेषु,

  • विषमासु निशासु विशंकमासते ॥५॥

  • जलधारा-शरताडिता,

  • न चलन्ति चरित्रतः सदा नृसिंहाः ।

  • संसार दुःख भीरवः,

  • परीषहा राति-घातिनः प्रवीराः ॥६॥

  • अविरतबहल तुहिनकण,

  • वारिभि-रंघ्रिप-पत्र पातनै-,

  • रनवरत-मुक्तसात्कार-रवैः,

  • पुरुषैरथानिलैः शोषितगात्रयष्टयः

  • /इह श्रमणा धृतिकंबलाऽवृताः

  • शिशिर निशां, तुषार विषमां,

  • गमयन्ति चतुः पथे स्थिताः ॥७॥

  • इति योगत्रय धारिणः,

  • सकल-तपशालिनः प्रवृद्धपुण्यकायाः ।

  • परमानंद सुखैषिणः,

  • समाधि-मग्रयं दिशंतु नो भदंताः ॥८ ॥

  • योगीश्वरान् जिनान्-सर्वान्,

  • योगिनिर्भूत कल्मषान्।

  • योगैस्-त्रिभि रहं वंदे,

  • योगस्कंध प्रतिष्ठितान् ॥९॥

  • क्षेपक श्लोकानि

  • प्रावट्-काले सविद्युत्-प्र-पतित,

  • सलिले वृक्ष-मूलाधिवासाः,

  • हेमन्ते रात्रि-मध्ये प्रति-विगत-भयाः

  • काष्ठ-वत्-व्यक्त देहाः।

  • ग्रीष्मे सूर्यांशु-तप्ता-गिरि-शिखर-गताः

  • स्थान-कूटांतर-स्थास्-

  • ते मे धर्मं प्रदद्युर्-मुनि,

  • गण-वृषभा मोक्ष-निःश्रेणि-भूताः ॥१॥

  • गिम्हे गिरि-सिहरत्था,

  • वरिसा-याले रुक्ख-मूल-रयणीसु ।

  • सिसिरे वाहिर-सयणा,

  • ते साहू वंदिमो णिच्चं ॥२॥

  • गिरि-कन्दर-दुर्गेषु, ये वसन्ति दिगम्बराः ।

  • पाणि-पात्र-पुटाहारास्-ते यांति परमां गतिम् ॥३॥

  • अञ्चलिका

  • इच्छामि भन्ते ! योगि-भक्ति काउस्सग्गो कओ, साउलोचेउं अड्ढाइज्ज-दीव-दो समुद्देस्, पण्णारस-काम-भूमिसु, आदावण- रुक्ख-मूलअब्भोवास ठाणमोण-जोगजुत्ताणं, सव्वसाहूणं णिच्चकालं, अच्चेमि, पूजेमि, वंदामि मीरासणेक्क पास कुक्कुडासण चउ-छ-पक्खखवणादि पार्मसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाओ, सुगइगमणं, समाहिमरणं, जिणगुणसंपत्ति होउ मज्झं।