विशापहार स्त्रोत्रं
स्वात्मस्थित: सर्वगत: समस्त-,व्यापारवेदी विनिवृत्तसङ्ग:।
प्रवृद्धकालोप्यजरो वरेण्य:,पायादपायात्पुरुष: पुराण:॥ १॥
परैरचिन्त्यं युगभारमेक:,स्तोतुं वहन्योगिभिरप्यशक्य:।
स्तुत्योऽद्य मेऽसौ वृषभो न भानो:,किमप्रवेशे विशति प्रदीप:॥२॥
तत्त्याज शक्र: शकनाभिमानं,नाहं त्यजामि स्तवनानुबन्धम्।
स्वल्पेन बोधेन ततोऽधिकार्थं,वातायनेनेव निरूपयामि ॥३॥
त्वं विश्वदृश्वा सकलैरदृश्यो,विद्वानशेषं निखिलैरवेद्य:।
वक्तुं कियान्कीदृश इत्यशक्य:,स्तुतिस्ततोऽशक्तिकथा तवास्तु॥ ४॥
व्यापीडितं बालमिवात्मदोषै-रुल्लाघतां लोकमवापिपस्त्वम्।
हिताहितान्वेषणमान्द्यभाज: ,सर्वस्य जन्तोरसि बालवैद्य:॥५॥
दाता न हर्ता दिवसं विवस्वा-नद्यश्व इत्यच्युतदर्शिताश:।
सव्याजमेवं गमयत्यशक्त:,क्षणेन दत्सेऽभिमतं नताय॥ ६॥
उपैति भक्त्या सुमुखः सुखानि,त्वयि स्वभावाद्विमुखश्च दु:खं।
सदावदातद्युतिरेकरूप -स्तयोस्त्वमादर्श इवावभासि॥ ७॥
अगाधताब्धे: स यत: पयोधिर्मेरोश्च तुङ्गा प्रकृति: स यत्र।
द्यावा पृथिव्यो: पृथुता तथैव,व्याप त्वदीया भुवनान्तराणि॥ ८॥
तवानवस्था परमार्थतत्त्वं,त्वया न गीत: पुनरागमश्च।
दृष्टं विहाय त्वमदृष्टमैषीर्विरुद्धवृत्तोऽपि समञ्जसस्त्वम्॥ ९॥
स्मर: सुदग्धो भवतैव तस्मिन्,नुद्धूलितात्मा यदि नाम शम्भु:।
अशेत वृन्दोपहतोऽपि विष्णु:,किं गृह्यते येन भवानजाग:॥ १०॥
स नीरजा: स्यादपरोऽघवान्वा,तद्दोषकीत्र्यैव न ते गुणित्वं।
स्वतोऽम्बुराशेर्महिमा न देव!,स्तोकापवादेन जलाशयस्य॥११॥
कर्मस्थितिं जन्तुरनेक भूमिं,नयत्यमुं सा च परस्परस्य।
त्वं नेतृभावं हि तयोर्भवाब्धौ,जिनेन्द्र! नौनाविकयोरिवाख्य:॥१२॥
सुखाय दु:खानि गुणाय दोषान्,धर्माय पापानि समाचरन्ति।
तैलाय बाला: सिकतासमूहं,निपीडयन्ति स्फुटमत्वदीया:॥१३॥
विषापहारं मणिमौषधानि,मन्त्रं समुद्दिश्य रसायनं च।
भ्राम्यन्त्यहो न त्वमिति स्मरन्ति,पर्यायनामानि तवैव तानि॥१४॥
चित्ते न किञ्चित्कृतवानसि त्वं, देव: कृतश्चेतसि येन सर्वम्।
हस्ते कृतं तेन जगद्विचित्रं,सुखेन जीवत्यपि चित्तबाह्य:॥१५॥
त्रिकालतत्त्वं त्वमवैस्त्रिलोकी,स्वामीतिसंख्यानियतेरमीषाम् ।
बोधाधिपत्यं प्रति नाभविष्यं-,स्तेऽन्येऽपि चेद्वयाप्स्यदमूनपीदम्॥१६॥
नाकस्य पत्यु: परिकर्म रम्यं,नागम्यरूपस्य तवोपकारि।
तस्यैव हेतु: स्वसुखस्य भानो-,रुद्विभ्रतच्छत्रमिवादरेण॥१७॥
क्वोपेक्षकस्त्वं क्व सुखोपदेश:,स चेत्किमिच्छा प्रतिकूलवाद:।
क्वासौ क्व वा सर्वजगत्प्रियत्वं,तन्नो यथातथ्यमवेविचं ते ॥१८॥
तुङ्गात्फलं यत्तदकिंचनाच्च,प्राप्यं समृद्धान्न धनेश्वरादे:।
निरम्भ - सोऽप्युच्चतमादिवाद्रेर्,नैकापि निर्याति धुनी पयोधे:॥ १९॥
त्रैलोक्यसेवानियमाय दण्डं,दध्रे यदिन्द्रो विनयेन तस्य।
तत्प्रातिहार्यं भवत: कुतस्त्यं,तत्कर्मयोगाद्यदि वा तवास्तु॥ २०॥
श्रिया परं पश्यति साधु नि:स्व:,श्रीमान्न कश्चित्कृपणं त्वदन्य:।
यथा प्रकाशस्थितमन्धकार-,स्थायीक्षतेऽसौ न तथा तम:स्थम्॥ २१॥
स्ववृद्धि - नि:श्वासनिमेषभाजि,प्रत्यक्षमात्मानुभवेऽपि मूढ:।
किं चाखिलज्ञेयविवर्तिबोध-,स्वरूपमध्यक्षमवैति लोक:॥२२॥
तस्यात्मजस्तस्य पितेति देव!, त्वां येऽवगायन्ति कुलं प्रकाश्य।
तेऽद्यापि नन्वाश्मनमित्यवश्यं,पाणौ कृतं हेम पुनस्त्यजन्ति॥ २३॥
दत्तस्त्रिलोक्यां पटहोऽभिभूता:,सुरासुरास्तस्य महान्स लाभ:।
मोहस्य मोहस्त्वयि को विरोद्धु-र्मूलस्य नाशो बलवद्विरोध:॥ २४॥
मार्गस्त्वयैको ददृशे विमुक्तेश् ,चतुर्गतीनां गहनं परेण।
सर्वं मया दृष्टमिति स्मयेन,त्वं मा कदाचिद्भुजमालुलोक:॥ २५॥
स्वर्भानुरर्कस्य हविर्भुजोऽम्भ:,कल्पान्तवातोऽम्बुनिधेर्विघात: ।
संसारभोगस्य वियोगभावो,विपक्षपूर्वाभ्युदयास्त्वदन्ये॥२६॥
अजानतस्त्वां नमत: फलं य-,त्तज्जानतोऽन्यं न तु देवतेति।
हरिन्मणिं काचधिया दधानस्,तं तस्य बुद्ध्या वहतो न रिक्त:॥२७॥
प्रशस्तवाचश्चतुरा: कषायैर्, दग्धस्य देवव्यवहारमाहु:।
गतस्य दीपस्य हि नन्दितत्वं, दृष्टं कपालस्य च मङ्गलत्वम्॥ २८॥
नानार्थमेकार्थमदस्त्वदुक्तं ,हितं वचस्ते निशमय्य वक्तु:।
निर्दोषतां के न विभावयन्ति,ज्वरेण मुक्त: सुगम: स्वरेण॥ २९॥
न क्वापि वाञ्छा ववृते च वाक्ते,काले क्व चित्कोऽपि तथा नियोग:।
न पूरयाम्यम्बुधिमित्युदंशु:,स्वयं हि शीतद्युतिरभ्युदेति ॥३०॥
गुणा गभीरा: परमा: प्रसन्ना, बहुप्रकारा बहवस्तवेति।
दृष्टोऽयमन्त: स्तवनेन तेषां,गुणो गुणानां किमत: परोऽस्ति॥ ३१॥
स्तुत्या परं नाभिमतं हि भक्त्या,स्मृत्या प्रणत्या च ततो भजामि।
स्मरामि देवं प्रणमामि नित्यं,केनाप्युपायेन फलं हि साध्यम्॥३२॥
ततस्त्रिलोकीनगराधिदेवं ,नित्यं परं ज्योतिरनन्तशक्तिम्।
अपुण्यपापं परपुण्यहेतुं,नमाम्यहं वन्द्यमवन्दितारम्॥३३॥
अशब्दमस्पर्शमरूपगन्धं त्वां,नीरसं तद्विषयावबोधम्।
सर्वस्य मातारममेयमन्यैर्,जिनेन्द्रमस्मार्यमनुस्मरामि ॥३४॥
अगाधमन्यैर्मनसाप्यलंघ्यं ,निष्किञ्चनं प्रार्थितमर्थवद्भि:।
विश्वस्य पारं तमदृष्टपारं,पतिं जनानां शरणं व्रजामि॥ ३५॥
त्रैलोक्यदीक्षागुरवे नमस्ते,यो वर्धमानोऽपि निजोन्नतोऽभूत्।
प्राग्गण्डशैल: पुनरद्रिकल्प:,पश्चान्न मेरु: कुलपर्वतोऽभूत्॥ ३६॥
स्वयं प्रकाशस्य दिवा निशा वा,न बाध्यता यस्य न बाधकत्वम्।
न लाघवं गौरवमेकरूपं,वन्दे विभुं कालकलामतीतम्॥ ३७॥
इति स्तुतिं देव विधाय दैन्या-,द्वरं न याचे त्वमुपेक्षकोऽसि।
छाया तरुं संश्रयत: स्वत: स्यात्,कश्छायया याचितयात्मलाभ:॥३८॥
अथास्ति दित्सा यदि वोपरोध-,स्त्वय्येव सक्तां दिश भक्तिबुद्धिम्।
करिष्यते देव तथा कृपां मे,को वात्मपोष्ये सुमुखो न सूरि:॥ ३९॥
वितरति विहिता यथाकथञ्चि-,ज्जिन विनताय मनीषितानि भक्ति:।
त्वयि नुतिविषया पुनर्विशेषा-,द्दिशति सुखानि यशो धनंजयं च॥४०॥