Strotra/Path

Strotra/Path

विशापहार स्त्रोत्रं

विशापहार स्त्रोत्रं

स्वात्मस्थित: सर्वगत: समस्त-,व्यापारवेदी विनिवृत्तसङ्ग:।

प्रवृद्धकालोप्यजरो वरेण्य:,पायादपायात्पुरुष: पुराण:॥ १॥

 

परैरचिन्त्यं युगभारमेक:,स्तोतुं वहन्योगिभिरप्यशक्य:।

स्तुत्योऽद्य मेऽसौ वृषभो न भानो:,किमप्रवेशे विशति प्रदीप:॥२॥

 

तत्त्याज शक्र: शकनाभिमानं,नाहं त्यजामि स्तवनानुबन्धम्।

स्वल्पेन बोधेन ततोऽधिकार्थं,वातायनेनेव निरूपयामि ॥३॥

 

त्वं विश्वदृश्वा सकलैरदृश्यो,विद्वानशेषं निखिलैरवेद्य:।

वक्तुं कियान्कीदृश इत्यशक्य:,स्तुतिस्ततोऽशक्तिकथा तवास्तु॥ ४॥

 

व्यापीडितं बालमिवात्मदोषै-रुल्लाघतां लोकमवापिपस्त्वम्।

हिताहितान्वेषणमान्द्यभाज: ,सर्वस्य जन्तोरसि बालवैद्य:॥५॥

 

दाता न हर्ता दिवसं विवस्वा-नद्यश्व इत्यच्युतदर्शिताश:।

सव्याजमेवं गमयत्यशक्त:,क्षणेन दत्सेऽभिमतं नताय॥ ६॥

 

उपैति भक्त्या सुमुखः सुखानि,त्वयि स्वभावाद्विमुखश्च दु:खं।

सदावदातद्युतिरेकरूप -स्तयोस्त्वमादर्श इवावभासि॥ ७॥

 

अगाधताब्धे: स यत: पयोधिर्मेरोश्च तुङ्गा प्रकृति: स यत्र।

द्यावा पृथिव्यो: पृथुता तथैव,व्याप त्वदीया भुवनान्तराणि॥ ८॥

 

तवानवस्था परमार्थतत्त्वं,त्वया न गीत: पुनरागमश्च।

दृष्टं विहाय त्वमदृष्टमैषीर्विरुद्धवृत्तोऽपि समञ्जसस्त्वम्॥ ९॥

 

स्मर: सुदग्धो भवतैव तस्मिन्,नुद्धूलितात्मा यदि नाम शम्भु:।

अशेत वृन्दोपहतोऽपि विष्णु:,किं गृह्यते येन भवानजाग:॥ १०॥

 

स नीरजा: स्यादपरोऽघवान्वा,तद्दोषकीत्र्यैव न ते गुणित्वं।

स्वतोऽम्बुराशेर्महिमा न देव!,स्तोकापवादेन जलाशयस्य॥११॥

 

कर्मस्थितिं जन्तुरनेक भूमिं,नयत्यमुं सा च परस्परस्य।

त्वं नेतृभावं हि तयोर्भवाब्धौ,जिनेन्द्र! नौनाविकयोरिवाख्य:॥१२॥

 

सुखाय दु:खानि गुणाय दोषान्,धर्माय पापानि समाचरन्ति।

तैलाय बाला: सिकतासमूहं,निपीडयन्ति स्फुटमत्वदीया:॥१३॥

 

विषापहारं मणिमौषधानि,मन्त्रं समुद्दिश्य रसायनं च।

भ्राम्यन्त्यहो न त्वमिति स्मरन्ति,पर्यायनामानि तवैव तानि॥१४॥

 

चित्ते न किञ्चित्कृतवानसि त्वं, देव: कृतश्चेतसि येन सर्वम्।

हस्ते कृतं तेन जगद्विचित्रं,सुखेन जीवत्यपि चित्तबाह्य:॥१५॥

 

त्रिकालतत्त्वं त्वमवैस्त्रिलोकी,स्वामीतिसंख्यानियतेरमीषाम् ।

बोधाधिपत्यं प्रति नाभविष्यं-,स्तेऽन्येऽपि चेद्वयाप्स्यदमूनपीदम्॥१६॥

 

नाकस्य पत्यु: परिकर्म रम्यं,नागम्यरूपस्य तवोपकारि।

तस्यैव हेतु: स्वसुखस्य भानो-,रुद्विभ्रतच्छत्रमिवादरेण॥१७॥

 

क्वोपेक्षकस्त्वं क्व सुखोपदेश:,स चेत्किमिच्छा प्रतिकूलवाद:।

क्वासौ क्व वा सर्वजगत्प्रियत्वं,तन्नो यथातथ्यमवेविचं ते ॥१८॥

 

तुङ्गात्फलं यत्तदकिंचनाच्च,प्राप्यं समृद्धान्न धनेश्वरादे:।

निरम्भ - सोऽप्युच्चतमादिवाद्रेर्,नैकापि निर्याति धुनी पयोधे:॥ १९॥

 

त्रैलोक्यसेवानियमाय दण्डं,दध्रे यदिन्द्रो विनयेन तस्य।

तत्प्रातिहार्यं भवत: कुतस्त्यं,तत्कर्मयोगाद्यदि वा तवास्तु॥ २०॥

 

श्रिया परं पश्यति साधु नि:स्व:,श्रीमान्न कश्चित्कृपणं त्वदन्य:।

यथा प्रकाशस्थितमन्धकार-,स्थायीक्षतेऽसौ न तथा तम:स्थम्॥ २१॥

 

स्ववृद्धि - नि:श्वासनिमेषभाजि,प्रत्यक्षमात्मानुभवेऽपि मूढ:।

किं चाखिलज्ञेयविवर्तिबोध-,स्वरूपमध्यक्षमवैति लोक:॥२२॥

 

तस्यात्मजस्तस्य पितेति देव!, त्वां येऽवगायन्ति कुलं प्रकाश्य।

तेऽद्यापि नन्वाश्मनमित्यवश्यं,पाणौ कृतं हेम पुनस्त्यजन्ति॥ २३॥

 

दत्तस्त्रिलोक्यां पटहोऽभिभूता:,सुरासुरास्तस्य महान्स लाभ:।

मोहस्य मोहस्त्वयि को विरोद्धु-र्मूलस्य नाशो बलवद्विरोध:॥ २४॥

 

मार्गस्त्वयैको ददृशे विमुक्तेश् ,चतुर्गतीनां गहनं परेण।

सर्वं मया दृष्टमिति स्मयेन,त्वं मा कदाचिद्भुजमालुलोक:॥ २५॥

 

स्वर्भानुरर्कस्य हविर्भुजोऽम्भ:,कल्पान्तवातोऽम्बुनिधेर्विघात: ।

संसारभोगस्य वियोगभावो,विपक्षपूर्वाभ्युदयास्त्वदन्ये॥२६॥

 

अजानतस्त्वां नमत: फलं य-,त्तज्जानतोऽन्यं न तु देवतेति।

हरिन्मणिं काचधिया दधानस्,तं तस्य बुद्ध्या वहतो न रिक्त:॥२७॥

 

प्रशस्तवाचश्चतुरा: कषायैर्, दग्धस्य देवव्यवहारमाहु:।

गतस्य दीपस्य हि नन्दितत्वं, दृष्टं कपालस्य च मङ्गलत्वम्॥ २८॥

 

नानार्थमेकार्थमदस्त्वदुक्तं ,हितं वचस्ते निशमय्य वक्तु:।

निर्दोषतां के न विभावयन्ति,ज्वरेण मुक्त: सुगम: स्वरेण॥ २९॥

 

न क्वापि वाञ्छा ववृते च वाक्ते,काले क्व चित्कोऽपि तथा नियोग:।

न पूरयाम्यम्बुधिमित्युदंशु:,स्वयं हि शीतद्युतिरभ्युदेति ॥३०॥

 

गुणा गभीरा: परमा: प्रसन्ना, बहुप्रकारा बहवस्तवेति।

दृष्टोऽयमन्त: स्तवनेन तेषां,गुणो गुणानां किमत: परोऽस्ति॥ ३१॥

 

स्तुत्या परं नाभिमतं हि भक्त्या,स्मृत्या प्रणत्या च ततो भजामि।

स्मरामि देवं प्रणमामि नित्यं,केनाप्युपायेन फलं हि साध्यम्॥३२॥

 

ततस्त्रिलोकीनगराधिदेवं ,नित्यं परं ज्योतिरनन्तशक्तिम्।

अपुण्यपापं परपुण्यहेतुं,नमाम्यहं वन्द्यमवन्दितारम्॥३३॥

 

अशब्दमस्पर्शमरूपगन्धं त्वां,नीरसं तद्विषयावबोधम्।

सर्वस्य मातारममेयमन्यैर्,जिनेन्द्रमस्मार्यमनुस्मरामि ॥३४॥

 

अगाधमन्यैर्मनसाप्यलंघ्यं ,निष्किञ्चनं प्रार्थितमर्थवद्भि:।

विश्वस्य पारं तमदृष्टपारं,पतिं जनानां शरणं व्रजामि॥ ३५॥

 

त्रैलोक्यदीक्षागुरवे नमस्ते,यो वर्धमानोऽपि निजोन्नतोऽभूत्।

प्राग्गण्डशैल: पुनरद्रिकल्प:,पश्चान्न मेरु: कुलपर्वतोऽभूत्॥ ३६॥

 

स्वयं प्रकाशस्य दिवा निशा वा,न बाध्यता यस्य न बाधकत्वम्।

न लाघवं गौरवमेकरूपं,वन्दे विभुं कालकलामतीतम्॥ ३७॥

 

इति स्तुतिं देव विधाय दैन्या-,द्वरं न याचे त्वमुपेक्षकोऽसि।

छाया तरुं संश्रयत: स्वत: स्यात्,कश्छायया याचितयात्मलाभ:॥३८॥

अथास्ति दित्सा यदि वोपरोध-,स्त्वय्येव सक्तां दिश भक्तिबुद्धिम्।

करिष्यते देव तथा कृपां मे,को वात्मपोष्ये सुमुखो न सूरि:॥ ३९॥

 

वितरति विहिता यथाकथञ्चि-,ज्जिन विनताय मनीषितानि भक्ति:।

त्वयि नुतिविषया पुनर्विशेषा-,द्दिशति सुखानि यशो धनंजयं च॥४०॥

Videos