Strotra/Path

Strotra/Path

वीतराग स्त्रोत्रं

वीतराग स्त्रोत्रं

शिवं शुद्धबुद्धं परं विश्वनाथं,न देवो न बंधुर्न कर्मा न कर्ता।

न अङ्गं न सङ्गं न स्वेच्छा न कायं,चिदानन्दरूपं नमो वीतरागम्॥ १॥

 

न बन्धो न मोक्षो न रागादिदोष:,न योगं न भोगं न व्याधिर्न शोक:।

न कोपं न मानं न माया न लोभं,चिदानन्दरूपं नमो वीतरागम्॥ २॥

 

न हस्तौ न पादौ न घ्राणं न जिह्वा,न चक्षुर्न कर्ण न वक्त्रं न निद्रा।

न स्वामी न भृत्यो न देवो न मत्र्य:,चिदानन्दरूपं नमो वीतरागम्॥ ३॥

 

न जन्म न मृत्यु: न मोहं न चिंता,न क्षुद्रो न भीतो न काश्र्यं न तन्द्रा।

न स्वेदं न खेदं न वर्णं न मुद्रा,चिदानन्दरूपं नमो वीतरागम्॥ ४॥

 

त्रिदण्डे त्रिखण्डे हरे विश्वनाथं,हृषी-केशविध्वस्त-कर्मादिजालम्।

न पुण्यं न पापं न चाक्षादि-गात्रं,चिदानन्दरूपं नमो वीतरागम्॥ ५॥

 

न बालो न वृद्धो न तुच्छो न मूढो,न स्वेदं न भेदं न मूर्तिर्न स्नेह:।

न कृष्णं न शुक्लं न मोहं न तंद्रा,चिदानन्दरूपं नमो वीतरागम्॥ ६॥

 

न आद्यं न मध्यं न अन्तं न चान्यत्,न द्रव्यं न क्षेत्रं न कालो न भाव:।

न शिष्यो गुरुर्नापि हीनं न दीनं,चिदानन्दरूपं नमो वीतरागम्॥ ७॥

 

इदं ज्ञानरूपं स्वयं तत्त्ववेदी,न पूर्णं न शून्यं न चैत्यस्वरूपम्।

न चान्यो न भिन्नं न परमार्थमेकं,चिदानन्दरूपं नमो वीतरागम्॥ ८॥

 

आत्माराम - गुणाकरं गुणनिधिं, चैतन्यरत्नाकरं,

सर्वे भूतगता-गते सुखदुखे, ज्ञाते त्वयि सर्वगे,

त्रैलोक्याधिपते स्वयं स्वमनसा, ध्यायन्ति योगीश्वरा:,

वंदे तं हरिवंशहर्ष-हृदयं, श्रीमान् हृदाभ्युद्यताम्॥ ९॥

Videos